हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Datta Vedapada Stuti – श्री दत्त वेदपाद स्तुतिः


अग्निमीले परं देवं यज्ञस्य त्वां त्र्यधीश्वरम् ।
स्तोमोऽयमग्रियोऽर्थ्यस्ते हृदिस्पृगस्तु शन्तमः ॥ १ ॥

अयं देवाय दूराय गिरां स्वाध्याय सात्वताम् ।
स्तोमोऽस्त्वनेन विन्देयं तद्विष्णोः परमं पदम् ॥ २ ॥

एता या लौकिकाः सन्तु हीना वाचोऽपि नः प्रियाः ।
बालस्येव पितुष्टे त्वं स नो मृल महाँ असि ॥ ३ ॥

अयं वां नात्मनोस्तत्त्वमधिगम्यास्ति दुर्मनाः ।
हृद्रोगं मम सूर्य त्वं हरिमाणं च नाशय ॥ ४ ॥

प्रमन्महेऽस्मान्विद्धीति स्तोतारस्ते वयं नमः ।
भगवो देव ते स्तोममारे अस्मे च शृण्वते ॥ ५ ॥

इन्द्रो मदाय यातीह सत्वरं सोमिनो यथा ।
स्तोतॄनेहि तथाऽस्माँस्ते माध्वीर्गावो भवन्तु नः ॥ ६ ॥

द्वे विरूपेऽत्र मायायास्तेऽत्र मग्नोऽस्मि पीडितः ।
माभितः सन्तपन्तीह सपत्नीरिव पर्शवः ॥ ७ ॥

इदं श्रेष्ठमपि प्राप्य जन्म गन्ताऽध एव तत् ।
कुरु प्रसादं ज्ञात्वैतत्तेनाहं भूरि चाकन ॥ ८ ॥

प्रवस्तुज्ञानाज्जहाति निष्कामश्चेन्मृतिं त्वहम् ।
न तादृशोऽतः कामादि सर्वं रक्षो निबर्हय ॥ ९ ॥

सुषुमामूर्धियः स्तोमैरागच्छैते वयं विभो ।
त्वदंशास्त्वं पतिर्नोऽसि देवो देवेषु मेधिरः ॥ १० ॥

वसू रूपं रूपमिह प्रतिरूपोऽसि नो पृथक् ।
एतानि भूतानि विदुर्ब्राह्मणा ये मनीषिणः ॥ ११ ॥

तं नु त्वां किं ब्रुवेऽल्पज्ञो भगवन्तं क्षमस्व भोः ।
ओषमागहि मां त्वं चेत्सखा सन्नतिमन्यसे ॥ १२ ॥

ता वासना घ्नन्ति यथा वृश्चिकस्यारसं विषम् ।
अतो मां पाहि भूयिष्ठां नम उक्तिं विधेम ते ॥ १३ ॥

नि होता सीदसि विभो यस्त्वं यष्टुर्गृहे प्रिय ।
तं त्वा ह्वये ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पते ॥ १४ ॥

सेमाविड्ढि प्रभृतिमीशिषे योऽव मानिशम् ।
त्वं विश्वेषां यदीशानो ब्रह्मणा वेषि मे हवम् ॥ १५ ॥

मन्दः स्वकोऽयं दीनोऽज्ञ इति विद्वान्भवान्प्रभुः ।
इन्द्र आशाभ्यः परि मां सर्वाभ्यो अभयं करत् ॥ १६ ॥

प्र य आरूपितां भ्रान्तिं त्वत्प्रसादाज्जहाति सः ।
विमुच्यते तद्विप्रास्त्वां जागृवांसः समिन्धते ॥ १७ ॥

इच्छन्ति देवा अपि ते प्रसादाय नृजन्म तत् ।
विद्वान्नामानि ते दत्त विश्वाभिर्गीर्भिरीमहे ॥ १८ ॥

इन्द्र त्वा भजतः सूरेर्दुर्लभं किं तरामि तत् ।
भक्त्या क्लेशादि ते नावा गम्भीराँ उदधीरिव ॥ १९ ॥

न ता रोद्धुं धियः शक्ता योगेनापि ततः सदा ।
त्रातारं धीमहीश त्वां धियो यो नः प्रचोदयात् ॥ २० ॥

वैश्वानराय दत्त्वाऽन्नं विधिलब्धं सदैव ते ।
भवामो भजने सक्ता अस्माकं शृणुधी हवम् ॥ २१ ॥

एवा त्वामिन्द्र विप्रासो जागृवांसो विपन्यवः ।
स्तुवन्त्येभ्यो हि ते कोऽपि न ज्यायाँ अस्ति वृत्रहन् ॥ २२ ॥

प्रऋभुभ्यो गृणद्भ्यस्ते मर्त्येभ्योऽप्यमृतत्वमित् ।
दत्तं स्मृत्वा तव मनोरथ आयातु पाजसा ॥ २३ ॥

इतमुत्यदिषं श्रेयो यज्जग्ध्वा परितृप्यति ।
साधुस्तद्भजनं तेऽस्मे इषं स्तोतृभ्य आभर ॥ २४ ॥

त्वामग्ने मायिनं मायां जेतारमपराजितम् ।
हित्वा कं शरणं यामः स नो बोधि श्रुधी हवम् ॥ २५ ॥

मही महेशोऽज्ञानेन भवानवतु मावृतम् ।
यथा वै सूर्यं स्वर्भानुस्तमसाविध्यदासुरः ॥ २६ ॥

प्रयुञ्जती यदात्मानं मनीषा मनसा सह ।
तदैव भवतैकान्तं जानता सङ्गमेमहि ॥ २७ ॥

ऋतस्य गोपास्त्वं देहि मह्यं शं युञ्जते धियः ।
भीताय नाधमानाय ऋषये सप्तवध्रये ॥ २८ ॥

त्वं हि पातासि नो दत्त परिबाधस्व दुष्कृतम् ।
कामादीन्यस्य बीजानि जहि रक्षांसि सुक्रतो ॥ २९ ॥

पिबा सोममिति श्रुत्वा यष्टुर्हूतिं शुभं द्रवत् ।
आयासि पुरुरूप त्वामासु गोषूपपृच्यताम् ॥ ३० ॥

इन्द्रं वोतान्यं न पृथङ्मन्ये मायाभिरिद्भवान् ।
पुरुरूप इतीक्षे त्वममित्राँ सुषहान्कृधि ॥ ३१ ॥

यज्ञा यज्ञाधीश सर्वे त्वन्मया अपि तेषु नः ।
जपयज्ञो मतस्तेन समु पूष्णा गमेमहि ॥ ३२ ॥

स्तुषे नराप्यं तुष्टः सन्नथो यस्या अयोमुखम् ।
मायां जित्वा भवान्तां मे विश्वाहा शर्म यच्छतु ॥ ३३ ॥

जुषस्व स्तोममीशैते प्रियासः सन्तु सूरयः ।
वयं स्तोमप्रियानेन यच्छा नः शर्म दीर्घश्रुत् ॥ ३४ ॥

उग्रो जज्ञे मृत्युरयमदुग्धा इव धेनवः ।
धियो मेऽनेनेदृगीश न जातो न जनिष्यते ॥ ३५ ॥

प्रब्रह्मैहीदमाकर्ण्योर्वारुकमिव बन्धनात् ।
मृत्युञ्जय प्रमादाख्यान्मृत्योर्मुक्षीय माऽमृतात् ॥ ३६ ॥

यदद्य वर्ष्म तेनैव पश्येम शरदः शतम् ।
स्तोत्राय ते हते मृत्यौ जीवेम शरदः शतम् ॥ ३७ ॥

प्रत्युत्तमं महेशं त्वां मनामह इहागहि ।
मृला सुक्षत्र मृलय मा नो दुःशंस ईशत ॥ ३८ ॥

तिस्रो वाचस्तेऽत्र वरां क ईशानं न याचिषत् ।
भक्त्या गृणीमस्त्वां स्तोत्रैस्तेभिर्नस्तूयमागहि ॥ ३९ ॥

दूराद्विहाय सर्वं त्वामृषयो ये च तुष्टुवुः ।
मर्ता अमर्त्यस्य ते तद्भूरि नाम मनामहे ॥ ४० ॥

य इन्द्र त्वं यो नमसा स्वध्वरो हीति संस्तुतः ।
इन्द्रो ब्रह्मेन्द्र ऋषिरित्युप ब्रह्माणि नः शृणु ॥ ४१ ॥

वयमु त्वा वरं देवमस्मभ्यं शर्म सप्रथः ।
मनामहे पृणन्तं तदभित्वामिन्द्र नोनुमः ॥ ४२ ॥

प्रकृतान्यपि सूक्तानि शृण्वन्तं जातवेदसम् ।
त्वां गृणन्ति न के त्वं हि येषामिन्द्रो युवा सखा ॥ ४३ ॥

त्वावतः पाहि नो मर्त्यान्यत इन्द्र भयामहे ।
आदिश्य पदभक्तिं ते ततो नो अभयं कृधि ॥ ४४ ॥

आ त्वा रथं न तुरगैः स्तोत्रैस्त्वा वर्तयामसि ।
स त्वं न इन्द्र मृलय यस्य ते स्वादु सख्यमित् ॥ ४५ ॥

आ प्रबोधं भवोऽबोधः स्वप्नवद्दुःखदोऽशुचिः ।
पतितान् दुःखितान्नॄन्नः पाहि त्वं शृणुधी गिरः ॥ ४६ ॥

इन्द्राय साम ते गातुं न क्षमो नाम ते गृणे ।
बण्महाँअसि सूर्य त्वं सत्रादेव महाँअसि ॥ ४७ ॥

सोमः पुनानोन्तारामो मया त्वं नाधिलक्षितः ।
ईक्षे तुच्छान्बहिर्भोगान्योषा जारमिव प्रियम् ॥ ४८ ॥

प्रण इन्दोरपि स्मरं रूपं ते दर्शयामलम् ।
नॄन् स्तोतॄन् पाह्यंहसो नो जहि रक्षांसि सुक्रतो ॥ ४९ ॥

हिन्वन्ति द्वैतमस्त्यस्माद्भयं विन्दति मामिह ।
यदन्ति दूरके यच्च पवमान वि तज्जहि ॥ ५० ॥

धर्ता कारकशक्तीनां सर्वेषां त्वमिहैक इत् ।
यशोऽत्रेदं पवित्रं ते विततं ब्रह्मणस्पते ॥ ५१ ॥

असर्जि भवता विश्वमनित्यमवशं बृहत् ।
त्वं संस्मर ज्ञ शरण वत्सं जातं न धेनवः ॥ ५२ ॥

पुरोजितीश भो भूमन् तत्र माममृतं कृधि ।
यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते ॥ ५३ ॥

अयं स इति विद्वान्त्सन्यमाय घृतवद्धविः ।
कुतो जुहोम्यतोऽदेवा यमाय जुहुता हविः ॥ ५४ ॥

निवर्तध्वमितो देवा भद्रं नो अपि वातय ।
मनो हरे मां पाह्यार्तं पिता पुत्रमिव प्रियम् ॥ ५५ ॥

प्रमा प्रमाता प्रमेयं त्रिपुटीह न विद्यते ।
रूपं तेऽविकृतं सत्त्वं मधुमन्मे परायणम् ॥ ५६ ॥

प्रहोतारोऽत्रैव मनोन्वाहुवामह इत्यतः ।
गमादि मनसो नास्य यो यज्ञस्य प्रसाधनः ॥ ५७ ॥

ये यज्ञेनार्चन्त्यनेन सर्वे नन्दन्ति ते त्वया ।
नान्येऽतस्त्वत्प्रिया एव विरूपासो दिवस्परि ॥ ५८ ॥

देवानां नु वशे योऽस्य सुमङ्गलीरियं वधूः ।
स्नेहेषु त्वच्युतो भोगी पतिर्बन्धेषु बध्यते ॥ ५९ ॥

विहितं सर्वमित्ते त्वमतो ज्यायांश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ ६० ॥

हये जाये इति वदन्या सालावृकहृत्समा ।
तन्मयो न स वेदामुमात्मानं तव पूरुष ॥ ६१ ॥

उभा उपाधितोऽत्रैकः पाकेन मनसान्वितः ।
त्वां यदीक्षेत तं माता रेह्लि स उ रेह्लि मातरम् ॥ ६२ ॥

तदिदात्मन्हृदि वपुः पश्यन्तस्ते मनीषया ।
मुनयो वातरशनाः पिशङ्गा वसतेऽमलाः ॥ ६३ ॥

त्यं चिन्मयं बुधा रूपं सञ्जानाना उपासते ।
यो अस्य पारे रजसः स नः पर्षदति द्विषः ॥ ६४ ॥

इषे त्वोर्जे चौदनेन नित्यहोमेऽपि गव्यतः ।
यजन्त्यहं त्वकामस्त्वां श्रेष्ठतमाय कर्मणे ॥ ६५ ॥

अग्न आयाहीति गातुं त्वाऽक्षमः स्तौमि केवलम् ।
निषीद मे हृदि यथा निहोता सत्सि बर्हिषि ॥ ६६ ॥

शं नो देवीः प्रसादात्ते सन्तु धीवृत्तयोऽनिशम् ।
आत्मप्रवाहाः स्वारस्याच्छम्योरभिस्रवन्तु नः ॥ ६७ ॥

ज्ञातेऽस्मिन्पाशमुक्तिः सकलविदिति तत्स्यादनिर्देश्यमेकं
सूक्ष्मं चातीन्द्रियं सत्तदयमिति गिरा शाब्दनिर्देश्यमेव ।
वाक्यैस्तत्त्वं विरोधेऽपि सति सुमतिभिः सोऽयमित्यादिवत्त-
-द्भागत्यागेन लक्ष्यं वरगुरुकृपया लभ्यमैक्यं हि तज्ज्ञैः ॥ ६८ ॥

इति श्रीदत्तपुराणे श्री दत्त वेदपाद स्तुतिः ।


Guru Stotras – श्री गुरु स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.